Ashtadhyayi Chandrika | Sanskrit 2.0

3

Pro hodnocení programu se prosím nejprve přihlaste

Staženo
2 ×
महाभाष्यकारस्य प्रदर्शितवचनमनुसृत्य अष्टाध्याय्याः तादृश्याः वृत्त्या आवश्यकता अनुभूता यस्यां सूत्रेण सह उदाहरणं, प्रत्युदाहरणं, वाक्याध्याहारः इत्येत्सर्वं भवेदिति धिया महर्षिपाणिनिप्रणीताम् अष्टाध्यायीमधिकृत्य ‘अष्टाध्यायीचन्द्रिका’ इतिनामको वृत्तिग्रन्थो विरचितो । अस्मिन् वृत्तिग्रन्थे मध्यभागे मूलसूत्रम्, तस्य वृत्तिः, उदाहरणं च विद्यते, सूत्रार्थबोधनाय अपेक्षामनुसृत्य सूत्रस्थपदानाम्, उदाहरणानां च विवरणमपि प्रस्तुतमस्ति। यत्र प्रत्युदाहरणेन सूत्रस्यार्थः स्फुटतरः भवति, तत्र प्रत्युदाहरणमपि प्रदर्शितम्। सहैव सूत्रार्थकरणे सहायकानाम्, प्रसिद्धप्रयोगसाधकानां वार्तिकानामपि समावेशः कृतो विद्यते। व्याख्यनस्याधोभागे मूलसूत्रात् कस्य कस्य पदस्य अनुवृत्तिर्भवति, इत्यस्य निर्देशो विद्यते। तत्र अनुवृत्तेरवधिश्च तत्र सूत्रसंख्यारूपेण निर्दिष्टोऽस्ति । सूत्रस्योर्ध्वभागे अनुवृत्तानां पदानां निर्देशेन सह यस्मात् सूत्रात् तानि पदानि अनुवर्त्यन्ते तेषां सूत्रसंख्याऽपि निर्दिष्टा विद्यते । गणसूत्राणि च मूलसूत्ररूपेण प्रक्षिप्तानि सन्ति, प्रकृतग्रन्थे तेषां समावेशः वार्तिकरूपेण, गणपाठस्य सूत्ररूपेण वा कृतोऽस्ति । अष्टाध्यायीचन्द्रिकायां सूत्रार्थप्रकाशनेऽपेक्षितानां काशिका-पदमञ्जरी-न्यासादिग्रन्थेषूपलब्धानां वचनानामपि यथास्थलं संग्रहः कृतोऽस्ति, क्वचित् तत्तद्ग्रन्थानां नामोल्लेखपुरस्सरम्, क्वचिच्च तत्तद्ग्रन्थानामुल्लेखं विनापि । अस्या वृत्त्याः साहाय्येन अल्पेन कालेन अष्टाध्याय्याः आदितः अन्तं यावद् सरलतया अर्थज्ञानपूर्वकं गन्तुं शक्ष्यन्ति जिज्ञासवः, इति मे दृढो विश्वासः।
  • Verze programu

    2.0

  • Poslední aktualizace od vývojáře

    28. 5. 2019

  • Počet stažení za měsíc

    0 ×

  • Velikost

    5,5 MB

  • Potřeba instalace:

    Ano

  • Web autora

    Srujan Jha

Zobrazit více
Přejít do Google Play
Zdarma

Sdílet

TIP: Stahují se vám programy pomalu? Změřte si rychlost svého internetového připojení.