Hindi to Sanskrit Dictionary (Speaking Dictionary) 1.3

3

Pro hodnocení programu se prosím nejprve přihlaste

Staženo
0 ×
दैनन्दिन-सम्भाषणाय नित्यव्यवहारोपयोगिसामान्यशब्दा: आवश्यका: भवन्ति। यथा–बन्धुबान्धवानां नाम, शरीराङ्गानां नाम, फलानां नाम, शाकानां नाम, गृहोपयोगिवस्तूनां नाम, भोज्यपदार्थानां नाम इत्यादय:। अत: एतादृशव्यावहारिकशब्दानां संग्रह: एतस्मिन् सम्भाषणकोषे कृतम्।

प्रास्ताविकम्
प्रिय संस्कृतबन्धो! नम: संस्कृताय।
`भाष्यते इति भाषा' इति व्युत्पत्त्या यया भाष्यते सा भाषा; अत: `संस्कृतम्' भाषा, यतोहि संस्कृतेन अस्माभि: सम्भाष्यते । संस्कृतसम्भाषणाय आवश्यका: भवन्ति शब्दा:, शब्दज्ञानाय अपेक्षित: भवति शब्दकोष:। `शब्दकोष:' तादृश: यत्र सम्भाषणोपयोगिशब्दानां संग्रह: स्यात्, अत: एतस्मिन् पुण्यकर्मणि गुर्वाज्ञया अस्माभि: प्रवृत्तम्। दैनन्दिन-सम्भाषणाय नित्यव्यवहारोपयोगिसामान्यशब्दा: आवश्यका: भवन्ति। यथा–बन्धुबान्धवानां नाम, शरीराङ्गानां नाम, फलानां नाम, शाकानां नाम, गृहोपयोगिवस्तूनां नाम, भोज्यपदार्थानां नाम इत्यादय:। अत: एतादृशव्यावहारिकशब्दानां संग्रह: एतस्मिन् सम्भाषणकोषे कृतम्।
यदि अहर्निशं सर्वदा सज्र्ल्पपूर्वकं संस्कृतेन एव सम्भाषणीयं तर्हि कदाचित् क्रोधादिसमये गालिशब्दानाम् अपि आवश्यकता अस्माभि: बहुधा अनुभूयते एव; अत: अत्र गालिपदानाम् अपि सज्र्लनं कृतम्। भर्तृहरिणा अपि उक्तम्–
``ददतु ददतु गालीर्गालिमन्तो भवन्तो,
वयमपि तदभावाद् गालिदानेऽसमर्था:'' –भर्तृ. ३/१३३
एवमेव सम्भाषणोपयोगिक्रियापदानाम्, अव्ययपदानां, पर्यायवाचि-विलोम-अनेकार्थकशब्दानामपि सज्र्लनम् अत्र कृतम्। मन्ये संस्कृतगङ्गाप्रयासेन निर्मित: एष: ``सम्भाषणशब्दकोष:'' सर्वोपयोगी स्यात्। शब्दकोषे सज्र्लितानां शब्दानां यदि वयं सम्यक् अभ्यासं कुर्म: तर्हि निश्चयेन संस्कृतसम्भाषणे समर्था: भवेम। उक्तं च-
युवा वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा। अभ्यासात् सिद्धिमाप्नोति सर्वकार्येष्वतन्द्रितः।।
अभ्यासेन क्रियाः सर्वा अभ्यासात् सकलाः कलाः। अभ्यासात् ध्यानमौनादि किमभ्यासस्य दुष्करम् ।।
कदाचित् लिङ्गादिनिर्धारणे उत नूतनशब्दरचनासु कुतश्चित् बुद्धिस्खलनं भवेत् एव तदर्थं क्षन्तव्योऽयं जन:।
परिष्काराय भवतां परामर्श: अपेक्षित:। कोषेऽस्मिन् कृतकार्यकर्तृन् सर्वान् संस्कृतगङ्गा सकार्तज्ञ्यं स्मरति।
संस्कृतगङ्गा, दारागञ्ज:, प्रयाग: सर्वज्ञभूषण:
अक्टूबर, २०१७
कृतज्ञता-ज्ञापनम्
अम्बिकेश प्रताप सिंह- (उपसचिव), संस्कृतगङ्गा, दारागञ्ज, प्रयाग
मनीष कुमार गोस्वामी, (शिक्षक), संस्कृतगङ्गा, दारागञ्ज, प्रयाग
धनञ्जयशास्त्री `जातवेदा:' – (कुलाचार्य:) आर्यसमाज, हरीनगर, नयी दिल्ली
सर्वेश कुमार मिश्र- (सम्भाषण-शिक्षक) संवादशाला, काशी, (उ.प्र.)
विशुद्धानन्द ब्रह्मचारी-ज्योतिषपीठ, बदरिकाश्रम, हिमालय
डॉ० राघव कुमार झा- (असिस्टेण्ट प्रोफेसर) संस्कृतविभाग
राधे हरि राजकीय स्नातकोत्तर महाविद्यालय काशीपुर, ऊधमसिंह नगर, उत्तराखण्ड
श्वेता द्विवेदी- (संस्कृत शिक्षिका) रोहिणी, नयी दिल्ली
डॉ० कुन्दन कुमार- (संस्कृत शिक्षक)
राजकीय बाल उ०मा० विद्यालय, ढाका, नयी दिल्ली।
राजकुमार गुप्ता, `राजू पुस्तक केन्द्र' – अल्लापुर, इलाहाबाद
अम्बर केसरवानी (कम्प्यूटर ऑपरेटर) संस्कृतगङ्गा दारागंज, इलाहाबाद
  • Verze programu

    1.3

  • Poslední aktualizace od vývojáře

    29. 6. 2019

  • Počet stažení za měsíc

    0 ×

  • Velikost

    4,5 MB

  • Potřeba instalace:

    Ne

  • Web autora

    Srujan Jha

Zobrazit více
Přejít do Google Play
Zdarma

Sdílet

TIP: Stahují se vám programy pomalu? Změřte si rychlost svého internetového připojení.